Sukta 6.21
स नो बोधि पुरएता सुगेषूत दुर्गेषु पथिकृद्विदानः । ये अश्रमास उरवो वहिष्ठास्तेभिर्न इन्द्राभि वक्षि वाजम् ॥
स नो॑ बोधि पुरए॒ता सु॒गेषू॒त दु॒र्गेषु॑ पथि॒कृद्विदा॑नः । ये अश्र॑मास उ॒रवो॒ वहि॑ष्ठा॒स्तेभि॑र्न इन्द्रा॒भि व॑क्षि॒ वाज॑म् ॥
sá no bodhi pura-etā́ su-géṣū́ta duḥ-géṣu pathi-kṛ́d vidā́naḥ | yé aśrámāsa urávo váhiṣṭhās tébhir na indrā́bhi vakṣi vā́jam ||
Awaken for us as the leader in front, the maker of the path in the easy ways and also in the hard ways, O knower. With those wide and most-bearing, unwearied powers, O Indra, carry us forward to the plenitude of force.
सः । नः॒ । बो॒धि॒ । पु॒रः॒ऽए॒ता । सु॒ऽगेषु॑ । उ॒त । दुः॒ऽगेषु॑ । प॒थि॒ऽकृत् । विदा॑नः । ये । अश्र॑मासः । उ॒रवः॑ । वहि॑ष्ठाः । तेभिः॑ । नः॒ । इ॒न्द्र॑ । अ॒भि । व॒क्षि॒ । वाज॑म् ॥सः । नः । बोधि । पुरःएता । सुगेषु । उत । दुःगेषु । पथिकृत् । विदानः । ये । अश्रमासः । उरवः । वहिष्ठाः । तेभिः । नः । इन्द्र । अभि । वक्षि । वाजम् ॥saḥ | naḥ | bodhi | puraḥ-etā | su-geṣu | uta | duḥ-geṣu | pathi-kṛt | vidānaḥ | ye | aśramāsaḥ | uravaḥ | vahiṣṭhāḥ | tebhiḥ | naḥ | indra | abhi | vakṣi | vājam