Sukta 6.20
तव ह त्यदिन्द्र विश्वमाजौ सस्तो धुनीचुमुरी या ह सिष्वप् । दीदयदित्तुभ्यं सोमेभिः सुन्वन्दभीतिरिध्मभृतिः पक्थ्यर्कैः ॥
तव॑ ह॒ त्यदि॑न्द्र॒ विश्व॑मा॒जौ स॒स्तो धुनी॒चुमु॑री॒ या ह॒ सिष्व॑प् । दी॒दय॒दित्तुभ्यं॒ सोमे॑भिः सु॒न्वन्द॒भीति॑रि॒ध्मभृ॑तिः प॒क्थ्य१॒॑र्कैः ॥
táva ha tyád indra víśvam ājā́u sástō dhunī-cúmurī yā́ ha sísvap | dī́dayad ít túbhyaṃ sómebhiḥ súnvan dabhītír idhmá-bhṛtiḥ pakthy àrkáiḥ ||
All that power of thine, O Indra, was proclaimed in the battle—when Dhunī and Cumurī were laid low, as thou didst will. Dabhīti of the Pakthas, bringing fuel and pressing Soma, made it blaze for thee with hymns: the fire of aspiration answering the god with light.
तव॑ । ह॒ । त्यत् । इ॒न्द्र॒ । विश्व॑म् । आ॒जौ । स॒स्तः । धुनी॒चुमु॑री॒ इति॑ । या । ह॒ । सिस्व॑प् । दी॒दय॑त् । इत् । तुभ्य॑म् । सोमे॑भिः । सु॒न्वन् । द॒भीतिः॑ । इ॒ध्मऽभृ॑तिः । प॒क्थी । अ॒र्कैः ॥तव । ह । त्यत् । इन्द्र । विश्वम् । आजौ । सस्तः । धुनीचुमुरी इति । या । ह । सिस्वप् । दीदयत् । इत् । तुभ्यम् । सोमेभिः । सुन्वन् । दभीतिः । इध्मभृतिः । पक्थी । अर्कैः ॥tava | ha | tyat | indra | viśvam | ājau | sastaḥ | dhunīcumurī iti | yā | ha | sisvap | dīdayat | it | tubhyam | somebhiḥ | sunvan | dabhītiḥ | idhma-bhṛtiḥ | pakthī | arkaiḥ