Sukta 6.2
क्रत्वा हि द्रोणे अज्यसेऽग्ने वाजी न कृत्व्यः । परिज्मेव स्वधा गयोऽत्यो न ह्वार्यः शिशुः ॥
क्रत्वा॒ हि द्रोणे॑ अ॒ज्यसेऽग्ने॑ वा॒जी न कृत्व्य॑: । परि॑ज्मेव स्व॒धा गयोऽत्यो॒ न ह्वा॒र्यः शिशु॑: ॥
kratvā́ hi dróṇe ajyase’gne vājī́ na kṛtvyàḥ | paríjmāiva svadhā́ gáyo’tyó na hvā́ryaḥ śíśuḥ ||
For by thy conscious power thou art anointed in the bowl, O Agni, like a winner rich in force. Self-sustained, moving all around like a circling steed, thou art the life-energy; like a swift horse, like a flame-child hard to assail.
क्रत्वा॑ । हि । द्रोणे॑ । अ॒ज्यसे॑ । अग्ने॑ । वा॒जी । न । कृत्व्यः॑ । परि॑ज्माऽइव । स्व॒धा । गयः॑ । अत्यः॑ । न । ह्वा॒र्यः । शिशुः॑ ॥क्रत्वा । हि । द्रोणे । अज्यसे । अग्ने । वाजी । न । कृत्व्यः । परिज्माइव । स्वधा । गयः । अत्यः । न । ह्वार्यः । शिशुः ॥kratvā | hi | droṇe | ajyase | agne | vājī | na | kṛtvyaḥ | parijmāiva | svadhā | gayaḥ | atyaḥ | na | hvāryaḥ | śiśuḥ