Sukta 6.2
अधा हि विक्ष्वीड्योऽसि प्रियो नो अतिथिः । रण्वः पुरीव जूर्यः सूनुर्न त्रययाय्यः ॥
अधा॒ हि वि॒क्ष्वीड्योऽसि॑ प्रि॒यो नो॒ अति॑थिः । र॒ण्वः पु॒री॑व॒ जूर्य॑: सू॒नुर्न त्र॑य॒याय्य॑: ॥
adhā́ hi vikṣv ī́ḍyo’si priyó no átīthiḥ | raṇváḥ purī́va jū́ryaḥ sūnúr na trayayā́yyaḥ ||
Therefore, among the peoples thou art worthy of our aspiration and praise; thou art our beloved guest. Delightful, like a stronghold, ever-young in thy power of growth, thou art like a son bringing a threefold increase (of the being).
अध॑ । हि । वि॒क्षु । ईड्यः॑ । असि॑ । प्रि॒यः । नः॒ । अति॑थिः । र॒ण्वः । पु॒रिऽइ॑व । जूर्यः॑ । सू॒नुः । न । त्र॒य॒याय्यः॑ ॥अध । हि । विक्षु । ईड्यः । असि । प्रियः । नः । अतिथिः । रण्वः । पुरिइव । जूर्यः । सूनुः । न । त्रययाय्यः ॥adha | hi | vikṣu | īḍyaḥ | asi | priyaḥ | naḥ | atithiḥ | raṇvaḥ | puri-iva | jūyarḥ | sūnuḥ | na | trayayāyyaḥ