Sukta 6.2
त्वेषस्ते धूम ऋण्वति दिवि षञ्छुक्र आततः । सूरो न हि द्युता त्वं कृपा पावक रोचसे ॥
त्वे॒षस्ते॑ धू॒म ऋ॑ण्वति दि॒वि षञ्छु॒क्र आत॑तः । सूरो॒ न हि द्यु॒ता त्वं कृ॒पा पा॑वक॒ रोच॑से ॥
tvēṣás te dhūmá ṛṇvati diví ṣán śukrá ā́tataḥ | sū́ro ná hí dyutā́ tváṃ kṛpā́ pāvaka rócase ||
Your fierce smoke surges and ranges in heaven, bright and spread out. For you shine with a solar blaze; O Pāvaka, with the forming power you illumine.
त्वे॒षः । ते॒ । धू॒मः । ऋ॒ण्व॒ति॒ । दि॒वि । सन् । शु॒क्रः । आऽत॑तः । सूरः॑ । न । हि । द्यु॒ता । त्वम् । कृ॒पा । पा॒व॒क॒ । रोच॑से ॥त्वेषः । ते । धूमः । ऋण्वति । दिवि । सन् । शुक्रः । आततः । सूरः । न । हि । द्युता । त्वम् । कृपा । पावक । रोचसे ॥tveṣaḥ | te | dhūmaḥ | ṛṇvati | divi | san | śukraḥ | ātataḥ | sūraḥ | na | hi | dyutā | tvam | kṛpā | pāvaka | rocase