Sukta 6.2
समिधा यस्त आहुतिं निशितिं मर्त्यो नशत् । वयावन्तं स पुष्यति क्षयमग्ने शतायुषम् ॥
स॒मिधा॒ यस्त॒ आहु॑तिं॒ निशि॑तिं॒ मर्त्यो॒ नश॑त् । व॒याव॑न्तं॒ स पु॑ष्यति॒ क्षय॑मग्ने श॒तायु॑षम् ॥
samídhā yás ta ā́hutiṃ níśitiṃ mártyo náśat | vayā́vantaṃ sá púṣyati kṣáyam agne śatáyūṣam ||
The mortal who reaches your offering with kindling and with the keen, directed act, he fosters a home that is full of life-force—O Agni—a dwelling of a hundred life-spans.
स॒म्ऽइधा॑ । यः । ते॒ । आऽहु॑तिम् । निऽशि॑तिम् । मर्त्यः॑ । नश॑त् । व॒याऽव॑न्तम् । सः । पु॒ष्य॒ति॒ । क्षय॑म् । अ॒ग्ने॒ । श॒तऽआ॑युषम् ॥सम्इधा । यः । ते । आहुतिम् । निशितिम् । मर्त्यः । नशत् । वयावन्तम् । सः । पुष्यति । क्षयम् । अग्ने । शतआयुषम् ॥sam-idhā | yaḥ | te | āhutim | ni-śitim | martyaḥ | naśat | vayāvantam | saḥ | puṣyati | kṣayam | agne | śata-āyuṣam