Sukta 6.2
ऋधद्यस्ते सुदानवे धिया मर्तः शशमते । ऊती ष बृहतो दिवो द्विषो अंहो न तरति ॥
ऋध॒द्यस्ते॑ सु॒दान॑वे धि॒या मर्त॑: श॒शम॑ते । ऊ॒ती ष बृ॑ह॒तो दि॒वो द्वि॒षो अंहो॒ न त॑रति ॥
ṛ́dhad yás te sudā́nave dhiyā́ mártaḥ śáśamate | ūtī́ ṣá bṛható divó dvíṣo áṃho ná tarati ||
He who grows in his being by thought and service to you, O generous giver—he, a mortal, comes to mastery. By the vast help of the high heaven he does not cross into the distress that the hostile would bring.
ऋध॑त् । यः । ते॒ । सु॒ऽदान॑वे । धि॒या । मर्तः॑ । श॒शम॑ते । ऊ॒ती । सः । बृ॒ह॒तः । दि॒वः । द्वि॒षः । अंहः॑ । न । त॒र॒ति॒ ॥ऋधत् । यः । ते । सुदानवे । धिया । मर्तः । शशमते । ऊती । सः । बृहतः । दिवः । द्विषः । अंहः । न । तरति ॥ṛdhat | yaḥ | te | su-dānave | dhiyā | martaḥ | śaśamate | ūtī | saḥ | bṛhataḥ | divaḥ | dviṣaḥ | aṃhaḥ | na | tarati