Sukta 6.2
सजोषस्त्वा दिवो नरो यज्ञस्य केतुमिन्धते । यद्ध स्य मानुषो जनः सुम्नायुर्जुह्वे अध्वरे ॥
स॒जोष॑स्त्वा दि॒वो नरो॑ य॒ज्ञस्य॑ के॒तुमि॑न्धते । यद्ध॒ स्य मानु॑षो॒ जन॑: सुम्ना॒युर्जु॒ह्वे अ॑ध्व॒रे ॥
sajóṣas tvā divó náro yajñásya ketúm indhate | yád dha syá mā́nuṣo jánas sumnāyúr juhvé adhvaré ||
In one accord the men of heaven kindle you, the banner-light of the sacrifice; and when the human people, desiring your grace, pour the offering in the unbroken rite, you blaze forth as the guiding sign.
स॒ऽजोषः॑ । त्वा॒ । दि॒वः । नरः॑ । य॒ज्ञस्य॑ । के॒तुम् । इ॒न्ध॒ते॒ । यत् । ह॒ । स्य । मानु॑षः । जनः॑ । सु॒म्न॒ऽयुः । जु॒ह्वे । अ॒ध्व॒रे ॥सजोषः । त्वा । दिवः । नरः । यज्ञस्य । केतुम् । इन्धते । यत् । ह । स्य । मानुषः । जनः । सुम्नयुः । जुह्वे । अध्वरे ॥sa-joṣaḥ | tvā | divaḥ | naraḥ | yajñasya | ketum | indhate | yat | ha | sya | mānuṣaḥ | janaḥ | sumna-yuḥ | juhve | adhvare