Sukta 6.18
स यो न मुहे न मिथू जनो भूत्सुमन्तुनामा चुमुरिं धुनिं च । वृणक्पिप्रुं शम्बरं शुष्णमिन्द्रः पुरां च्यौत्नाय शयथाय नू चित् ॥
स यो न मु॒हे न मिथू॒ जनो॒ भूत्सु॒मन्तु॑नामा॒ चुमु॑रिं॒ धुनिं॑ च । वृ॒णक्पिप्रुं॒ शम्ब॑रं॒ शुष्ण॒मिन्द्र॑: पु॒रां च्यौ॒त्नाय॑ श॒यथा॑य॒ नू चि॑त् ॥
sa yó na múhe na mithū́ jánō bhūt sumántu-nāmā́ cumúrim dhúnim ca | vṛṇák piprúṃ śámbaraṃ śúṣṇam índraḥ purā́ṃ cyautnā́ya śayáthāya nū́ cit ||
He who is no bewildered or crooked mortal—named ‘Good-counsel’—slew Cumuri and Dhuni; Indra struck down Pipru, Śambara, Śuṣṇa, and even for the old strongholds he made the fall for their overthrow.
सः । यः । न । मु॒हे । न । मिथु॑ । जनः॑ । भूत् । सु॒मन्तु॑ऽनामा । चुमु॑रिम् । धुनि॑म् । च॒ । वृ॒णक् । पिप्रु॑म् । शम्ब॑रम् । शुष्ण॑म् । इन्द्रः॑ । पु॒राम् । च्यौ॒त्नाय॑ । श॒यथा॑य । नु । चि॒त् ॥सः । यः । न । मुहे । न । मिथु । जनः । भूत् । सुमन्तुनामा । चुमुरिम् । धुनिम् । च । वृणक् । पिप्रुम् । शम्बरम् । शुष्णम् । इन्द्रः । पुराम् । च्यौत्नाय । शयथाय । नु । चित् ॥saḥ | yaḥ | na | muhe | na | mithu | janaḥ | bhūt | sumantu-nāmā | cumurim | dhunim | ca | vṛṇak | piprum | śambaram | śuṣṇam | indraḥ | purām | cyautnāya | śayathāya | nu | cit