Sukta 6.18
स मज्मना जनिम मानुषाणाममर्त्येन नाम्नाति प्र सर्स्रे । स द्युम्नेन स शवसोत राया स वीर्येण नृतमः समोकाः ॥
स म॒ज्मना॒ जनि॑म॒ मानु॑षाणा॒मम॑र्त्येन॒ नाम्नाति॒ प्र स॑र्स्रे । स द्यु॒म्नेन॒ स शव॑सो॒त रा॒या स वी॒र्ये॑ण॒ नृत॑म॒: समो॑काः ॥
sa májmanā jánima mā́nuṣāṇām ámartyena nā́mnā́ti prá sarsre | sa dyumnéna sa śávasotā́ rāyā́ sa vīryèṇa nṛ́-tamaḥ sam-okā́ḥ ||
By his greatness he has outstripped the birth of men; by the immortal Name he has surged beyond. By luminous glory, by force, and by plenitude he is the most manly among those who dwell together; by hero-power he leads the common home.
सः । म॒ज्मना॑ । जनि॑म । मानु॑षाणाम् । अम॑र्त्येन । नाम्ना॑ । अति॑ । प्र । स॒र्स्रे॒ । सः । द्यु॒म्नेन॑ । सः । शव॑सा । उ॒त । रा॒या । सः । वी॒र्ये॑ण । नृऽत॑मः । सम्ऽओ॑काः ॥सः । मज्मना । जनिम । मानुषाणाम् । अमर्त्येन । नाम्ना । अति । प्र । सर्स्रे । सः । द्युम्नेन । सः । शवसा । उत । राया । सः । वीर्येण । नृतमः । सम्ओकाः ॥saḥ | majmanā | janima | mānuṣāṇām | amartyena | nāmnā | ati | pra | sarsre | saḥ | dyumnena | saḥ | śavasā | uta | rāyā | saḥ | vīryeṇa | nṛ-tamaḥ | sam-okāḥ