Sukta 6.18
स हि धीभिर्हव्यो अस्त्युग्र ईशानकृन्महति वृत्रतूर्ये । स तोकसाता तनये स वज्री वितन्तसाय्यो अभवत्समत्सु ॥
स हि धी॒भिर्हव्यो॒ अस्त्यु॒ग्र ई॑शान॒कृन्म॑ह॒ति वृ॑त्र॒तूर्ये॑ । स तो॒कसा॑ता॒ तन॑ये॒ स व॒ज्री वि॑तन्त॒साय्यो॑ अभवत्स॒मत्सु॑ ॥
sa hí dhībhír havyó asty ugrá īśāna-kṛ́n mahátī vṛtra-tū́rye | sa tókā-sātā tánaye sa vajrī́ vitantasā́yyo abhavat samát-su ||
For he is to be invoked by the thoughts; he is the formidable one, the maker of mastery in the great battle with Vṛtra. He wins the child and the lineage; he, the wielder of the thunder-force, becomes the far-stretching victor in the clashes.
सः । हि । धी॒भिः । हव्यः॑ । अस्ति॑ । उ॒ग्रः । ई॒शा॒न॒ऽकृत् । म॒ह॒ति । वृ॒त्र॒ऽतूर्ये॑ । सः । तो॒कऽसा॑ता । तन॑ये । सः । व॒ज्री । वि॒त॒न्त॒साय्यः॑ । अ॒भ॒व॒त् । स॒मत्ऽसु॑ ॥सः । हि । धीभिः । हव्यः । अस्ति । उग्रः । ईशानकृत् । महति । वृत्रतूर्ये । सः । तोकसाता । तनये । सः । वज्री । वितन्तसाय्यः । अभवत् । समत्सु ॥saḥ | hi | dhībhiḥ | havyaḥ | asti | ugraḥ | īśāna-kṛt | mahati | vṛtra-tūrye | saḥ | toka-sātā | tanaye | saḥ | vajrī | vitantasāyyaḥ | abhavat | samat-su