Sukta 6.18
सदिद्धि ते तुविजातस्य मन्ये सहः सहिष्ठ तुरतस्तुरस्य । उग्रमुग्रस्य तवसस्तवीयोऽरध्रस्य रध्रतुरो बभूव ॥
सदिद्धि ते॑ तुविजा॒तस्य॒ मन्ये॒ सह॑: सहिष्ठ तुर॒तस्तु॒रस्य॑ । उ॒ग्रमु॒ग्रस्य॑ त॒वस॒स्तवी॒योऽर॑ध्रस्य रध्र॒तुरो॑ बभूव ॥
sád id dhi te tuvi-jā́tasya mányē sáhaḥ sahiṣṭha turatáḥ turásya | ugrám ugrásya távasas tavī́yo áradhrasya radhra-túro babhūva ||
Surely, I hold, the strength of thee—widely born—O most able to prevail, swift of the swift, is the more mighty might of the mighty; for the unbroken one becomes the breaker of all that is broken and perverse.
सत् । इत् । हि । ते॒ । तु॒वि॒ऽजा॒तस्य॑ । मन्ये॑ । सहः॑ । स॒हि॒ष्ठ॒ । तु॒र॒तः । तु॒रस्य॑ । उ॒ग्रम् । उ॒ग्रस्य॑ । त॒वसः॑ । तवी॑यः । अर॑ध्रस्य । र॒ध्र॒ऽतुरः॑ । ब॒भू॒व॒ ॥सत् । इत् । हि । ते । तुविजातस्य । मन्ये । सहः । सहिष्ठ । तुरतः । तुरस्य । उग्रम् । उग्रस्य । तवसः । तवीयः । अरध्रस्य । रध्रतुरः । बभूव ॥sat | it | hi | te | tuvi-jātasya | manye | sahaḥ | sahiṣṭha | turataḥ | turasya | ugram | ugrasya | tavasaḥ | tavīyaḥ | aradhrasya | radhra-turaḥ | babhūva