Sukta 6.18
त्वं ह नु त्यददमायो दस्यूँरेकः कृष्टीरवनोरार्याय । अस्ति स्विन्नु वीर्यं तत्त इन्द्र न स्विदस्ति तदृतुथा वि वोचः ॥
त्वं ह॒ नु त्यद॑दमायो॒ दस्यूँ॒रेक॑: कृ॒ष्टीर॑वनो॒रार्या॑य । अस्ति॑ स्वि॒न्नु वी॒र्यं१॒॑ तत्त॑ इन्द्र॒ न स्वि॑दस्ति॒ तदृ॑तु॒था वि वो॑चः ॥
tvaṃ ha nu tyád adamāyo dásyūn ékaḥ kṛṣṭī́r avano rāŕyāya | ásti svin nu vīryàṃ tát ta indra ná svid asti tád ṛtu-thā́ ví vocaḥ ||
Thou indeed didst subdue the lawless Dasyus; alone thou didst guard the peoples for the Arya—tell out in the right season: is that hero-power truly thine, O Indra, or is it not there at all?
त्वम् । ह॒ । नु । त्यत् । अ॒द॒म॒यः॒ । दस्यू॑न् । एकः॑ । कृ॒ष्टीः । अ॒व॒नोः॒ । आर्या॑य । अस्ति॑ । स्वि॒त् । नु । वी॒र्य॑म् । तत् । ते॒ । इ॒न्द्र॒ । न । स्वि॑त् । अ॒स्ति॒ । तत् । ऋ॒तु॒ऽथा । वि । वो॒चः॒ ॥त्वम् । ह । नु । त्यत् । अदमयः । दस्यून् । एकः । कृष्टीः । अवनोः । आर्याय । अस्ति । स्वित् । नु । वीर्यम् । तत् । ते । इन्द्र । न । स्वित् । अस्ति । तत् । ऋतुथा । वि । वोचः ॥tvam | ha | nu | tyat | adamayaḥ | dasyūn | ekaḥ | kṛṣṭīḥ | avanoḥ | āryāya | asti | svit | nu | vīryam | tat | te | indra | na | svit | asti | tat | ṛtu-thā | vi | vocaḥ