Sukta 6.18
स युध्मः सत्वा खजकृत्समद्वा तुविम्रक्षो नदनुमाँ ऋजीषी । बृहद्रेणुश्च्यवनो मानुषीणामेकः कृष्टीनामभवत्सहावा ॥
स यु॒ध्मः सत्वा॑ खज॒कृत्स॒मद्वा॑ तुविम्र॒क्षो न॑दनु॒माँ ऋ॑जी॒षी । बृ॒हद्रे॑णु॒श्च्यव॑नो॒ मानु॑षीणा॒मेक॑: कृष्टी॒नाम॑भवत्स॒हावा॑ ॥
sa yudh́maḥ sátvā khaja-kṛ́t samádvā tuvi-mrakṣó nadanu-mā́n ṛjīṣī | bṛhád-reṇuś cyávano mā́nuṣīṇām ékaḥ kṛṣṭī́nām abhavat sahā́vā ||
He, the warrior and the strong soul, the breaker of the obstructing mass, the victor in the clash, wide in luminous force and roaring in the surge, the straight-driving one—he becomes the great-powdered mover of human limitations; alone among the peoples he stands as the all-conquering helper.
सः । यु॒ध्मः । सत्वा॑ । ख॒ज॒ऽकृत् । स॒मत्ऽवा॑ । तु॒वि॒ऽम्र॒क्षः । न॒द॒नु॒ऽमान् । ऋ॒जी॒षी । बृ॒हत्ऽरे॑णुः । च्यव॑नः॒ । मानु॑षीणाम् । एकः॑ । कृ॒ष्टी॒नाम् । अ॒भ॒व॒त् । स॒हऽवा॑ ॥सः । युध्मः । सत्वा । खजकृत् । समत्वा । तुविम्रक्षः । नदनुमान् । ऋजीषी । बृहत्रेणुः । च्यवनः । मानुषीणाम् । एकः । कृष्टीनाम् । अभवत् । सहवा ॥saḥ | yudhmaḥ | satvā | khaja-kṛt | samat-vā | tuvi-mrakṣaḥ | nadanu-mān | ṛjīṣī | bṛhat-reṇuḥ | cyavanaḥ | mānuṣīṇām | ekaḥ | kṛṣṭīnām | abhavat | saha-vā