Sukta 6.18
तमु ष्टुहि यो अभिभूत्योजा वन्वन्नवातः पुरुहूत इन्द्रः । अषाळ्हमुग्रं सहमानमाभिर्गीर्भिर्वर्ध वृषभं चर्षणीनाम् ॥
तमु॑ ष्टुहि॒ यो अ॒भिभू॑त्योजा व॒न्वन्नवा॑तः पुरुहू॒त इन्द्र॑: । अषा॑ळ्हमु॒ग्रं सह॑मानमा॒भिर्गी॒र्भिर्व॑र्ध वृष॒भं च॑र्षणी॒नाम् ॥
tám u ṣṭuhi yó abhibhū́ty-ojā vanván ávātāḥ puru-hūtá índraḥ | aṣā́ḷham ugráṃ sáhamānam ābhír gī́rbhir vardha vṛṣabháṃ carṣaṇīnā́m ||
Praise him—Indra—whose strength overcomes all assaults, who wins without being driven back, the much-invoked. With these hymns increase the unconquered, fierce, enduring Bull of the peoples.
तम् । ऊँ॒ इति॑ । स्तु॒हि॒ । यः । अ॒भिभू॑तिऽओजाः । व॒न्वन् । अवा॑तः । पु॒रु॒ऽहू॒तः । इन्द्रः॑ । अषा॑ळ्हम् । उ॒ग्रम् । सह॑मानम् । आ॒भिः । गीः॒ऽभिः । व॒र्ध॒ । वृ॒ष॒भम् । च॒र्ष॒णी॒नाम् ॥तम् । ऊँ इति । स्तुहि । यः । अभिभूतिओजाः । वन्वन् । अवातः । पुरुहूतः । इन्द्रः । अषाळ्हम् । उग्रम् । सहमानम् । आभिः । गीःभिः । वर्ध । वृषभम् । चर्षणीनाम् ॥tam | oṃ iti | stuhi | yaḥ | abhibhūti-ojāḥ | vanvan | avātaḥ | puru-hūtaḥ | indraḥ | aṣāḷham | ugram | sahamānam | ābhiḥ | gīḥ-bhiḥ | vardha | vṛṣabham | carṣaṇīnām