Sukta 6.18
प्र तुविद्युम्नस्य स्थविरस्य घृष्वेर्दिवो ररप्शे महिमा पृथिव्याः । नास्य शत्रुर्न प्रतिमानमस्ति न प्रतिष्ठिः पुरुमायस्य सह्योः ॥
प्र तु॑विद्यु॒म्नस्य॒ स्थवि॑रस्य॒ घृष्वे॑र्दि॒वो र॑रप्शे महि॒मा पृ॑थि॒व्याः । नास्य॒ शत्रु॒र्न प्र॑ति॒मान॑मस्ति॒ न प्र॑ति॒ष्ठिः पु॑रुमा॒यस्य॒ सह्यो॑: ॥
prá tuvidyumnásya stávirasya ghṛ́ṣver divó rarapśe mahimā́ pṛthivyā́ḥ | nā́sya śátrur ná pratimā́nam asti ná pratiṣṭhíḥ purumāyásya sahyóḥ ||
Forward moves the vast glory of the strong and ardent One; the greatness of Heaven is made to resound, and the greatness of Earth. For him there is no enemy, no measure set against him, no foothold that can oppose the many-skilled, the overpowering.
प्र । तु॒वि॒ऽद्यु॒म्नस्य॑ । स्थवि॑रस्य । घृष्वेः॑ । दि॒वः । र॒र॒प्शे॒ । म॒हि॒मा । पृ॒थि॒व्याः । न । अ॒स्य॒ । शत्रुः॑ । न । प्र॒ति॒ऽमान॑म् । अ॒स्ति॒ । न । प्र॒ति॒ऽस्थिः । पु॒रु॒ऽमा॒यस्य॑ । सह्योः॑ ॥प्र । तुविद्युम्नस्य । स्थविरस्य । घृष्वेः । दिवः । ररप्शे । महिमा । पृथिव्याः । न । अस्य । शत्रुः । न । प्रतिमानम् । अस्ति । न । प्रतिस्थिः । पुरुमायस्य । सह्योः ॥pra | tuvi-dyumnasya | sthavirasya | ghṛṣveḥ | divaḥ | rarapśe | mahimā | pṛthi vyāḥ | na | asya | śatruḥ | na | prati-mānam | asti | na | prati-sthiḥ | puruymāyasya | sahyoḥ