Sukta 6.18
प्र तत्ते अद्या करणं कृतं भूत्कुत्सं यदायुमतिथिग्वमस्मै । पुरू सहस्रा नि शिशा अभि क्षामुत्तूर्वयाणं धृषता निनेथ ॥
प्र तत्ते॑ अ॒द्या कर॑णं कृ॒तं भू॒त्कुत्सं॒ यदा॒युम॑तिथि॒ग्वम॑स्मै । पु॒रू स॒हस्रा॒ नि शि॑शा अ॒भि क्षामुत्तूर्व॑याणं धृष॒ता नि॑नेथ ॥
prá tát te adyā́ káraṇaṃ kṛtáṃ bhūt kútsaṃ yad āyúm atithigvám asmai | purū́ sahásrā ní śiśā abhí kṣām uttū́rvayāṇaṃ dhṛṣatā́ ninetha ||
Forth is that deed of yours accomplished today: when for him you set Kutsā, the life-force, the guest-seeker. Many thousands you drove down and pressed back upon the field; and you led up Tūrvayāṇa with daring force.
प्र । तत् । ते॒ । अ॒द्य । कर॑णम् । कृ॒तम् । भू॒त् । कुत्स॑म् । यत् । आ॒युम् । अ॒ति॒थि॒ऽग्वम् । अ॒स्मै॒ । पु॒रु । स॒हस्रा॑ । नि । शि॒शाः॒ । अ॒भि । क्षाम् । उत् । तूर्व॑याणम् । धृ॒ष॒ता । नि॒ने॒थ॒ ॥प्र । तत् । ते । अद्य । करणम् । कृतम् । भूत् । कुत्सम् । यत् । आयुम् । अतिथिग्वम् । अस्मै । पुरु । सहस्रा । नि । शिशाः । अभि । क्षाम् । उत् । तूर्वयाणम् । धृषता । निनेथ ॥pra | tat | te | adya | karaṇam | kṛtam | bhūt | kutsam | yat | āyum | atithi-gvam | asmai | puru | sahasrā | ni | śiśāḥ | abhi | kṣām | ut | tūrvayāṇam | dhṛṣatā | ninetha