Sukta 6.17
अध द्यौश्चित्ते अप सा नु वज्राद्द्वितानमद्भियसा स्वस्य मन्योः । अहिं यदिन्द्रो अभ्योहसानं नि चिद्विश्वायुः शयथे जघान ॥
अध॒ द्यौश्चि॑त्ते॒ अप॒ सा नु वज्रा॑द्द्वि॒तान॑मद्भि॒यसा॒ स्वस्य॑ म॒न्योः । अहिं॒ यदिन्द्रो॑ अ॒भ्योह॑सानं॒ नि चि॑द्वि॒श्वायु॑: श॒यथे॑ ज॒घान॑ ॥
ádha dyáuś cit te ápa sā́ nú vájrād dvitā́ anamat bhíyasā svásya manyóḥ | áhīṃ yád índro abhy-óhasānaṃ ní cid viśvá-āyuḥ śáyathe jaghā́na ||
Then even Heaven withdrew from thy thunderbolt; twice it bent away in fear of thy own wrath. When Indra smote the serpent-power that pressed forward, even the all-life lay down, slain in its very lair.
अध॑ । द्यौः । चि॒त् । ते॒ । अप॑ । सा । नु । वज्रा॑त् । द्वि॒ता । अ॒न॒म॒त् । भि॒यसा॑ । स्वस्य॑ । म॒न्योः । अहि॑म् । यत् । इन्द्रः॑ । अ॒भि । ओह॑सानम् । नि । चि॒त् । वि॒श्वऽआ॑युः । श॒यथे॑ । ज॒घान॑ ॥अध । द्यौः । चित् । ते । अप । सा । नु । वज्रात् । द्विता । अनमत् । भियसा । स्वस्य । मन्योः । अहिम् । यत् । इन्द्रः । अभि । ओहसानम् । नि । चित् । विश्वआयुः । शयथे । जघान ॥adha | dyauḥ | cit | te | apa | sā | nu | vajrāt | dvitā | anamat | bhiyasā | svasya | manyoḥ | ahim | yat | indraḥ | abhi | ohasānam | ni | cit | viśva-āyuḥ | śayathe | jaghāna