Sukta 6.17
अध त्वष्टा ते मह उग्र वज्रं सहस्रभृष्टिं ववृतच्छताश्रिम् । निकाममरमणसं येन नवन्तमहिं सं पिणगृजीषिन् ॥
अध॒ त्वष्टा॑ ते म॒ह उ॑ग्र॒ वज्रं॑ स॒हस्र॑भृष्टिं ववृतच्छ॒ताश्रि॑म् । निका॑मम॒रम॑णसं॒ येन॒ नव॑न्त॒महिं॒ सं पि॑णगृजीषिन् ॥
ádha tváṣṭā te mahá ugrá vájraṃ sahásra-bhṛṣṭiṃ vavṛtac chatá-āśrim | ní-kāmam ára-manasam yéna návantaṃ áhīṃ sám piṇag ṛjīṣin ||
Then Tvashṭṛ fashioned for thee, O mighty one, the fierce thunder-force, thousand-edged, hundred-pointed. With it—irresistible, not to be turned aside—thou didst crush the ninefold serpent, O wielder of the tawny steeds.
अध॑ । त्वष्टा॑ । ते॒ । म॒हः । उ॒ग्र॒ । वज्र॑म् । स॒हस्र॑ऽभृष्टिम् । व॒वृ॒त॒त् । श॒तऽअ॑श्रिम् । निऽका॑मम् । अ॒रऽम॑नसम् । येन॑ । नव॑न्तम् । अहि॑म् । सम् । पि॒ण॒क् । ऋ॒जी॒षि॒न् ॥अध । त्वष्टा । ते । महः । उग्र । वज्रम् । सहस्रभृष्टिम् । ववृतत् । शतअश्रिम् । निकामम् । अरमनसम् । येन । नवन्तम् । अहिम् । सम् । पिणक् । ऋजीषिन् ॥adha | tvaṣṭā | te | mahaḥ | ugra | vajram | sahasra-bhṛṣṭim | vavṛtat | śata-aśrim | ni-kāmam | ara-manasam | yena | navantam | ahim | sam | piṇak | ṛjīṣin