Sukta 6.17
अध त्वा विश्वे पुर इन्द्र देवा एकं तवसं दधिरे भराय । अदेवो यदभ्यौहिष्ट देवान्त्स्वर्षाता वृणत इन्द्रमत्र ॥
अध॑ त्वा॒ विश्वे॑ पु॒र इ॑न्द्र दे॒वा एकं॑ त॒वसं॑ दधिरे॒ भरा॑य । अदे॑वो॒ यद॒भ्यौहि॑ष्ट दे॒वान्त्स्व॑र्षाता वृणत॒ इन्द्र॒मत्र॑ ॥
ádha tvā víśve púra índra devā́ ékaṃ tavásaṃ dadhire bhárāya | ádevo yád abhy-áuhiṣṭa devā́n svàr-sātā vṛṇate índram átra ||
Then all the gods set thee in front, O Indra, as the one strong power for the bearing of the battle. When the godless pressed hard upon the gods, the winners of the Light chose Indra here.
अध॑ । त्वा॒ । विश्वे॑ । पु॒रः । इ॒न्द्र॒ । दे॒वाः । एक॑म् । त॒वस॑म् । द॒धि॒रे॒ । भरा॑य । अदे॑वः । यत् । अ॒भि । औहि॑ष्ट । दे॒वान् । स्वः॑ऽसाता । वृ॒ण॒ते॒ । इन्द्र॑म् । अत्र॑ ॥अध । त्वा । विश्वे । पुरः । इन्द्र । देवाः । एकम् । तवसम् । दधिरे । भराय । अदेवः । यत् । अभि । औहिष्ट । देवान् । स्वःसाता । वृणते । इन्द्रम् । अत्र ॥adha | tvā | viśve | puraḥ | indra | devāḥ | ekam | tavasam | dadhire | bharāya | adevaḥ | yat | abhi | auhiṣṭa | devān | svaḥ-sātā | vṛṇate | indram | atra