Sukta 6.17
पप्राथ क्षां महि दंसो व्युर्वीमुप द्यामृष्वो बृहदिन्द्र स्तभायः । अधारयो रोदसी देवपुत्रे प्रत्ने मातरा यह्वी ऋतस्य ॥
प॒प्राथ॒ क्षां महि॒ दंसो॒ व्यु१॒॑र्वीमुप॒ द्यामृ॒ष्वो बृ॒हदि॑न्द्र स्तभायः । अधा॑रयो॒ रोद॑सी दे॒वपु॑त्रे प्र॒त्ने मा॒तरा॑ य॒ह्वी ऋ॒तस्य॑ ॥
paprātha kṣā́m mahí daṃsó ví urvīm úpa dyā́m ṛṣvó bṛhád indra stabhāyaḥ | ádhārayo ródasī deváputre pratné mā́tarā yahvī́ ṛtásya ||
Thou hast widened the earth by thy mighty power and upheld the vast heaven, O Indra of the Greatness. Thou didst sustain the two worlds, the divine daughters, the ancient Mothers, wide-flowing in the Truth (ṛta).
प॒प्राथ॑ । क्षाम् । महि॑ । दंसः॑ । वि । उ॒र्वीम् । उप॑ । द्याम् । ऋ॒ष्वः । बृ॒हत् । इ॒न्द्र॒ । स्त॒भा॒यः॒ । अधा॑रयः । रोद॑सी॒ इति॑ । दे॒वपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे । प्र॒त्ने इति॑ । मा॒तरा॑ । य॒ह्वी इति॑ । ऋ॒तस्य॑ ॥पप्राथ । क्षाम् । महि । दंसः । वि । उर्वीम् । उप । द्याम् । ऋष्वः । बृहत् । इन्द्र । स्तभायः । अधारयः । रोदसी इति । देवपुत्रे इति देवपुत्रे । प्रत्ने इति । मातरा । यह्वी इति । ऋतस्य ॥paprātha | kṣām | mahi | daṃsaḥ | vi | urvīm | upa | dyām | ṛṣvaḥ | bṛhat | indra | stabhāyaḥ | adhārayaḥ | rodasī iti | devaputreitideva-putre | pratne iti | mātarā | yahvī iti | ṛtasya