Sukta 6.17
तव क्रत्वा तव तद्दंसनाभिरामासु पक्वं शच्या नि दीधः । और्णोर्दुर उस्रियाभ्यो वि दृळ्होदूर्वाद्गा असृजो अङ्गिरस्वान् ॥
तव॒ क्रत्वा॒ तव॒ तद्दं॒सना॑भिरा॒मासु॑ प॒क्वं शच्या॒ नि दी॑धः । और्णो॒र्दुर॑ उ॒स्रिया॑भ्यो॒ वि दृ॒ळ्होदू॒र्वाद्गा अ॑सृजो॒ अङ्गि॑रस्वान् ॥
táva krátvā táva tád daṃsanā́bhir āmā́su pakváṃ śácyā ní dīdhaḥ | aúrṇor dúra usríyābhyo ví dṛḷhó d ūrvā́d gā́ asṛjo áṅgirasvān ||
By your will and by your acts of power, by your effective skill, you set the ripe result within the unripe; you opened the doors for the radiant ones, you broke apart the firm barriers, and from the enclosure you released the cows—the rays—along with the Angiras power of the seers.
तव॑ । क्रत्वा॑ । तव॑ । तत् । दं॒सना॑भिः । आ॒मासु॑ । प॒क्वम् । शच्या॑ । नि । दी॒ध॒रिति॑ दीधः । और्णोः॑ । दुरः॑ । उ॒स्रिया॑भ्यः । वि । दृ॒ळ्हा । उत् । ऊ॒र्वात् । गाः । अ॒सृ॒जः॒ । अङ्गि॑रस्वान् ॥तव । क्रत्वा । तव । तत् । दंसनाभिः । आमासु । पक्वम् । शच्या । नि । दीधरिति दीधः । और्णोः । दुरः । उस्रियाभ्यः । वि । दृळ्हा । उत् । ऊर्वात् । गाः । असृजः । अङ्गिरस्वान् ॥tava | kratvā | tava | tat | daṃsanābhiḥ | āmāsu | pakvam | śacyā | ni | dīdharitidīdhaḥ | aurṇoḥ | duraḥ | usriyābhyaḥ | vi | dṛḷhā | ut | ūrvāt | gāḥ | asṛjaḥ | aṅgirasvān