Sukta 6.17
येभिः सूर्यमुषसं मन्दसानोऽवासयोऽप दृळ्हानि दर्द्रत् । महामद्रिं परि गा इन्द्र सन्तं नुत्था अच्युतं सदसस्परि स्वात् ॥
येभि॒: सूर्य॑मु॒षसं॑ मन्दसा॒नोऽवा॑स॒योऽप॑ दृ॒ळ्हानि॒ दर्द्र॑त् । म॒हामद्रिं॒ परि॒ गा इ॑न्द्र॒ सन्तं॑ नु॒त्था अच्यु॑तं॒ सद॑स॒स्परि॒ स्वात् ॥
yébhíḥ sū́ryam uṣásaṃ mandasānó 'vāsayo 'pá dṛḷhā́ni dárdrat | mahā́m ádrim pári gā́ indra sántam nutthā́ ácyutaṃ sádasaḥ pári svā́t ||
With those powers by which, rejoicing, you made the Sun and Dawn shine forth and shattered the firm-held obstructions—so too, O Indra, break open the great stone that holds the rays; thrust it away, unmoved till now, from its seat in the being.
येभिः॑ । सूर्य॑म् । उ॒षस॑म् । म॒न्द॒सा॒नः । अवा॑सयः । अप॑ । दृ॒ळ्हानि॑ । दर्द्र॑त् । म॒हाम् । अद्रि॑म् । परि॑ । गाः । इ॒न्द्र॒ । सन्त॑म् । नु॒त्थाः । अच्यु॑तम् । सद॑सः । परि॑ । स्वात् ॥येभिः । सूर्यम् । उषसम् । मन्दसानः । अवासयः । अप । दृळ्हानि । दर्द्रत् । महाम् । अद्रिम् । परि । गाः । इन्द्र । सन्तम् । नुत्थाः । अच्युतम् । सदसः । परि । स्वात् ॥yebhiḥ | sūryam | uṣasam | mandasānaḥ | avāsayaḥ | apa | dṛḷhāni | dardrat | mahām | adrim | pari | gāḥ | indra | santam | nutthāḥ | acyutam | sadasaḥ | pari | svāt