Sukta 6.17
ते त्वा मदा बृहदिन्द्र स्वधाव इमे पीता उक्षयन्त द्युमन्तम् । महामनूनं तवसं विभूतिं मत्सरासो जर्हृषन्त प्रसाहम् ॥
ते त्वा॒ मदा॑ बृ॒हदि॑न्द्र स्वधाव इ॒मे पी॒ता उ॑क्षयन्त द्यु॒मन्त॑म् । म॒हामनू॑नं त॒वसं॒ विभू॑तिं मत्स॒रासो॑ जर्हृषन्त प्र॒साह॑म् ॥
té tvā madā́ bṛhádindra svadhāva imé pītā́ ukṣayanta dyu-mántam | mahā́m anū́naṃ tavásaṃ ví-bhūtiṃ matsarā́so jarhṛṣanta pra-sā́ham ||
These great intoxications of Soma, O Indra, self-powered, once drunk, increase your luminous might—your vast, undiminished strength and wide mastery; the rapturous draughts exult in you, the overcomer.
ते । त्वा॒ । मदाः॑ । बृ॒हत् । इ॒न्द्र॒ । स्व॒धा॒ऽवः॒ । इ॒मे । पी॒ताः । उ॒क्ष॒य॒न्त॒ । द्यु॒ऽमन्त॑म् । म॒हाम् । अनू॑नम् । त॒वस॑म् । विऽभू॑तिम् । म॒त्स॒रासः॑ । ज॒र्हृ॒ष॒न्त॒ । प्र॒ऽसाह॑म् ॥ते । त्वा । मदाः । बृहत् । इन्द्र । स्वधावः । इमे । पीताः । उक्षयन्त । द्युमन्तम् । महाम् । अनूनम् । तवसम् । विभूतिम् । मत्सरासः । जर्हृषन्त । प्रसाहम् ॥te | tvā | madāḥ | bṛhat | indra | svadhāvaḥ | ime | pītāḥ | ukṣayanta | dyu-mantam | mahām | anūnam | tavasam | vi-bhūtim | matsarāsaḥ | jarhṛṣanta | pra-sāham