Sukta 6.17
एवा पाहि प्रत्नथा मन्दतु त्वा श्रुधि ब्रह्म वावृधस्वोत गीर्भिः । आविः सूर्यं कृणुहि पीपिहीषो जहि शत्रूँरभि गा इन्द्र तृन्धि ॥
ए॒वा पा॑हि प्र॒त्नथा॒ मन्द॑तु त्वा श्रु॒धि ब्रह्म॑ वावृ॒धस्वो॒त गी॒र्भिः । आ॒विः सूर्यं॑ कृणु॒हि पी॑पि॒हीषो॑ ज॒हि शत्रूँ॑र॒भि गा इ॑न्द्र तृन्धि ॥
evā́ pāhi pratná-thā mándatu tvā śrudhí bráhma vāvṛdhasvóta gī́rbhiḥ | āvíḥ sū́ryaṃ kṛṇuhí pīpihī́ṣo jahí śátrūn abhí gā́ indra tṛndhi ||
So guard and accept it as of old; let it delight you—hear the mantra and grow by our hymns. Make the Sun manifest; swelling with the Soma, strike down the enemies; drive the rays/cows towards us, O Indra.
ए॒व । पा॒हि॒ । प्र॒त्नऽथा॑ । मन्द॑तु । त्वा॒ । श्रु॒धि । ब्रह्म॑ । व॒वृ॒धस्व॑ । उ॒त । गीः॒ऽभिः । आ॒विः । सूर्य॑म् । कृ॒णु॒हि । पी॒पि॒हीषः॑ । ज॒हि । शत्रू॑न् । अ॒भि । गाः । इ॒न्द्र॒ । तृ॒न्धि॒ ॥एव । पाहि । प्रत्नथा । मन्दतु । त्वा । श्रुधि । ब्रह्म । ववृधस्व । उत । गीःभिः । आविः । सूर्यम् । कृणुहि । पीपिहीषः । जहि । शत्रून् । अभि । गाः । इन्द्र । तृन्धि ॥eva | pāhi | pratna-thā | mandatu | tvā | śrudhi | brahma | vavṛdhasva | uta | gīḥ-bhiḥ | āviḥ | sūryam | kṛṇuhi | pīpihīṣaḥ | jahi | śatrūn | abhi | gāḥ | indra | tṛndhi