Sukta 6.17
स ईं पाहि य ऋजीषी तरुत्रो यः शिप्रवान्वृषभो यो मतीनाम् । यो गोत्रभिद्वज्रभृद्यो हरिष्ठाः स इन्द्र चित्राँ अभि तृन्धि वाजान् ॥
स ईं॑ पाहि॒ य ऋ॑जी॒षी तरु॑त्रो॒ यः शिप्र॑वान्वृष॒भो यो म॑ती॒नाम् । यो गो॑त्र॒भिद्व॑ज्र॒भृद्यो ह॑रि॒ष्ठाः स इ॑न्द्र चि॒त्राँ अ॒भि तृ॑न्धि॒ वाजा॑न् ॥
sá īṃ pāhi yá ṛjīṣī tárutro yáḥ śípravān vṛṣabhó yó matīnā́m | yó gotra-bhíd vajra-bhṛ́d yó hari-sthā́ḥ sá indra citrā́ṃ abhí tṛndhi vā́jān ||
Guard and foster this Soma for us—you who are the impetuous, the overpassing, the strong-bull, the lord of inspired thoughts; you who break the pens, who bear the thunderbolt, who stand upon the shining steeds: O Indra, drive towards us the varied plenitudes of force.
सः । ई॒म् । पा॒हि॒ । यः । ऋ॒जी॒षी । तरु॑त्रः । यः । शिप्र॑ऽवान् । वृ॒ष॒भः । यः । म॒ती॒नाम् । यः । गो॒त्र॒ऽभित् । व॒ज्र॒ऽभृत् । यः । ह॒रि॒ऽस्थाः । सः । इ॒न्द्र॒ । चि॒त्रान् । अ॒भि । तृ॒न्धि॒ । वाजा॑न् ॥सः । ईम् । पाहि । यः । ऋजीषी । तरुत्रः । यः । शिप्रवान् । वृषभः । यः । मतीनाम् । यः । गोत्रभित् । वज्रभृत् । यः । हरिस्थाः । सः । इन्द्र । चित्रान् । अभि । तृन्धि । वाजान् ॥saḥ | īm | pāhi | yaḥ | ṛjīṣī | tarutraḥ | yaḥ | śipra-vān | vṛṣabhaḥ | yaḥ | matīnām | yaḥ | gotra-bhit | vajra-bhṛt | yaḥ | hari-sthāḥ | saḥ | indra | citrān | abhi | tṛndhi | vājān