Sukta 6.17
पिबा सोममभि यमुग्र तर्द ऊर्वं गव्यं महि गृणान इन्द्र । वि यो धृष्णो वधिषो वज्रहस्त विश्वा वृत्रममित्रिया शवोभिः ॥
पिबा॒ सोम॑म॒भि यमु॑ग्र॒ तर्द॑ ऊ॒र्वं गव्यं॒ महि॑ गृणा॒न इ॑न्द्र । वि यो धृ॑ष्णो॒ वधि॑षो वज्रहस्त॒ विश्वा॑ वृ॒त्रम॑मि॒त्रिया॒ शवो॑भिः ॥
píbā sómam abhí yám ugra tárda ūŕvaṃ gávyam máhi gṛṇāná indra | ví yó dhṛ́ṣṇo vádhiṣo vajra-hasta víśvā vṛtrám amitriyā́ śávo-bhiḥ ||
Drink the Soma, O Indra, and with it break open, O puissant one, the vast pen of luminous rays; praised by our speech, you—bold slayer with the thunder in your hand—shatter every Coverer and hostile force by your mighty energies.
पिब॑ । सोम॑म् । अ॒भि । यम् । उ॒ग्र॒ । तर्दः॑ । ऊ॒र्वम् । गव्य॑म् । महि॑ । गृ॒णा॒नः । इ॒न्द्र॒ । वि । यः । धृ॒ष्णो॒ इति॑ । वधि॑षः । व॒ज्र॒ऽह॒स्त॒ । विश्वा॑ । वृ॒त्रम् । अ॒मि॒त्रिया॑ । शवः॑ऽभिः ॥पिब । सोमम् । अभि । यम् । उग्र । तर्दः । ऊर्वम् । गव्यम् । महि । गृणानः । इन्द्र । वि । यः । धृष्णो इति । वधिषः । वज्रहस्त । विश्वा । वृत्रम् । अमित्रिया । शवःभिः ॥piba | somam | abhi | yam | ugra | tardaḥ | ūrvam | gavyam | mahi | gṛṇānaḥ | indra | vi | yaḥ | dhṛṣṇo iti | vadhiṣaḥ | vajra-hasta | viśvā | vṛtram | amitriyā | śavaḥ-bhiḥ