Sukta 6.17
आ क्षोदो महि वृतं नदीनां परिष्ठितमसृज ऊर्मिमपाम् । तासामनु प्रवत इन्द्र पन्थां प्रार्दयो नीचीरपसः समुद्रम् ॥
आ क्षोदो॒ महि॑ वृ॒तं न॒दीनां॒ परि॑ष्ठितमसृज ऊ॒र्मिम॒पाम् । तासा॒मनु॑ प्र॒वत॑ इन्द्र॒ पन्थां॒ प्रार्द॑यो॒ नीची॑र॒पस॑: समु॒द्रम् ॥
ā́ kṣódo mahí vṛtáṃ nadī́nāṃ pári-sthitam asṛja ū́rmim apā́m | tā́sām ánu prá-vata índra pánthāṃ prā́rdayo nī́cīr ápasaḥ samudrám ||
Thou didst drive away the great barrier that hemmed the rivers; thou didst release the wave of the waters. Following their downward flow, O Indra, thou didst cleave for them a path; thou didst urge the waters downward to the ocean of fullness.
आ । क्षोदः॑ । महि॑ । वृ॒तम् । न॒दीना॑म् । परि॑ऽस्थितम् । अ॒सृ॒जः॒ । ऊ॒र्मिम् । अ॒पाम् । तासा॑म् । अनु॑ । प्र॒ऽवतः॑ । इ॒न्द्र॒ । पन्था॑म् । प्र । आ॒र्द॒यः॒ । नीचीः॑ । अ॒पसः॑ । स॒मु॒द्रम् ॥आ । क्षोदः । महि । वृतम् । नदीनाम् । परिस्थितम् । असृजः । ऊर्मिम् । अपाम् । तासाम् । अनु । प्रवतः । इन्द्र । पन्थाम् । प्र । आर्दयः । नीचीः । अपसः । समुद्रम् ॥ā | kṣodaḥ | mahi | vṛtam | nadīnām | pari-sthitam | asṛjaḥ | ūrmim | apām | tāsām | anu | pra-vataḥ | indra | panthām | pra | ārdayaḥ | nīcīḥ | apasaḥ | samudram