Sukta 6.16
वीती यो देवं मर्तो दुवस्येदग्निमीळीताध्वरे हविष्मान् । होतारं सत्ययजं रोदस्योरुत्तानहस्तो नमसा विवासेत् ॥
वी॒ती यो दे॒वं मर्तो॑ दुव॒स्येद॒ग्निमी॑ळीताध्व॒रे ह॒विष्मा॑न् । होता॑रं सत्य॒यजं॒ रोद॑स्योरुत्ता॒नह॑स्तो॒ नम॒सा वि॑वासेत् ॥
vītī yó deváṃ márto duvasyéd agním īḷītādhvaré havíṣmān | hótāraṃ satya-yájaṃ ródasyor uttānà-hasto námasā vivāset ||
He who, a mortal, would serve the Divine, should adore Agni in the sacrifice, bearing the offering—Agni the Hotar, the true in the act of sacrifice, the mediator of the two worlds; with hands uplifted he should bow and open himself in reverence.
वी॒ती । यः । दे॒वम् । मर्तः॑ । दु॒व॒स्येत् । अ॒ग्निम् । ई॒ळी॒त॒ । अ॒ध्व॒रे । ह॒विष्मा॑न् । होता॑रम् । स॒त्य॒ऽयज॑म् । रोद॑स्योः । उ॒त्ता॒नऽह॑स्तः । न॒म॒सा । वि॒वा॒से॒त् ॥वीती । यः । देवम् । मर्तः । दुवस्येत् । अग्निम् । ईळीत । अध्वरे । हविष्मान् । होतारम् । सत्ययजम् । रोदस्योः । उत्तानहस्तः । नमसा । विवासेत् ॥vītī | yaḥ | devam | martaḥ | duvasyet | agnim | īḷīta | adhvare | haviṣmān | hotāram | satya-yajam | rodasyoḥ | uttāna-hastaḥ | namasā | vivāset