Sukta 6.16
अग्निर्वृत्राणि जङ्घनद्द्रविणस्युर्विपन्यया । समिद्धः शुक्र आहुतः ॥
अ॒ग्निर्वृ॒त्राणि॑ जङ्घनद्द्रविण॒स्युर्वि॑प॒न्यया॑ । समि॑द्धः शु॒क्र आहु॑तः ॥
agnír vṛtrā́ṇi jaṅghanad draviṇasyúr vipanyáyā | samíddhaḥ śukrá ā́hutaḥ ||
Agni has shattered the coverers, desiring the riches by the inspired delight of praise; kindled, bright, he is the invoked and offered flame.
अ॒ग्निः । वृ॒त्राणि॑ । ज॒ङ्घ॒न॒त् । द्र॒वि॒ण॒स्युः । वि॒प॒न्यया॑ । सम्ऽइ॑द्धः । शु॒क्रः । आऽहु॑तः ॥अग्निः । वृत्राणि । जङ्घनत् । द्रविणस्युः । विपन्यया । सम्इद्धः । शुक्रः । आहुतः ॥agniḥ | vṛtrāṇi | jaṅghanat | draviṇasyuḥ | vipanyayā | sam-iddhaḥ | śukraḥ | āhutaḥ