Sukta 6.16
वस्वी ते अग्ने संदृष्टिरिषयते मर्त्याय । ऊर्जो नपादमृतस्य ॥
वस्वी॑ ते अग्ने॒ संदृ॑ष्टिरिषय॒ते मर्त्या॑य । ऊर्जो॑ नपाद॒मृत॑स्य ॥
vasvī́ te agne saṃdṛ́ṣṭir iṣayate martyā́ya | ūrjó napād amṛ́tasya ||
O Agni, thy rich and luminous vision presses forward for the mortal, O Child of the immortal Force of plenitude.
वस्वी॑ । ते॒ । अ॒ग्ने॒ । सम्ऽदृ॑ष्टिः । इ॒ष॒ऽय॒ते । मर्त्या॑य । ऊर्जः॑ । न॒पा॒त् । अ॒मृत॑स्य ॥वस्वी । ते । अग्ने । सम्दृष्टिः । इषयते । मर्त्याय । ऊर्जः । नपात् । अमृतस्य ॥vasvī | te | agne | sam-dṛṣṭiḥ | iṣa-yate | martyāya | ūrjaḥ | napāt | amṛtasya