Sukta 6.16
त्वमग्ने यज्ञानां होता विश्वेषां हितः । देवेभिर्मानुषे जने ॥
त्वम॑ग्ने य॒ज्ञानां॒ होता॒ विश्वे॑षां हि॒तः । दे॒वेभि॒र्मानु॑षे॒ जने॑ ॥
tvám agne yajñā́nāṃ hotā́ víśveṣāṃ hitáḥ | devébhiḥ mā́nuṣe jáne ||
Thou, O Agni, art the invoking priest of all sacrifices, set for the good; with the gods thou takest thy station in the human being.
त्वम् । अ॒ग्ने॒ । य॒ज्ञाना॑म् । होता॑ । विश्वे॑षाम् । हि॒तः । दे॒वेभिः॑ । मानु॑षे । जने॑ ॥त्वम् । अग्ने । यज्ञानाम् । होता । विश्वेषाम् । हितः । देवेभिः । मानुषे । जने ॥tvam | agne | yajñānām | hotā | viśveṣām | hitaḥ | devebhiḥ | mānuṣe | jane