Sukta 6.15
विभूषन्नग्न उभयाँ अनु व्रता दूतो देवानां रजसी समीयसे । यत्ते धीतिं सुमतिमावृणीमहेऽध स्मा नस्त्रिवरूथः शिवो भव ॥
वि॒भूष॑न्नग्न उ॒भयाँ॒ अनु॑ व्र॒ता दू॒तो दे॒वानां॒ रज॑सी॒ समी॑यसे । यत्ते॑ धी॒तिं सु॑म॒तिमा॑वृणी॒महेऽध॑ स्मा नस्त्रि॒वरू॑थः शि॒वो भ॑व ॥
vibhū́ṣann agna ubhayā́ṃ ánu vratā́ dūtó devā́nāṃ rájasī sámīyase | yát te dhītíṃ sumatím āvṛṇīmahé 'dha smā nas trivarū́thaḥ śivó bhava ||
O Agni, moving in beauty, following both orders, the messenger of the gods, you traverse the two worlds. Since we choose for ourselves your inspired thought and right-mindedness, then become for us a threefold shelter, benign and gracious.
वि॒ऽभूष॑न् । अ॒ग्ने॒ । उ॒भया॒न् । अनु॑ । व्र॒ता । दू॒तः । दे॒वाना॑म् । रज॑सी॒ इति॑ । सम् । ई॒य॒से॒ । यत् । ते॒ । धी॒तिम् । सु॒ऽम॒तिम् । आ॒ऽवृ॒णी॒महे॑ । अध॑ । स्म॒ । नः॒ । त्रि॒ऽवरू॑थः । शि॒वः । भ॒व॒ ॥विभूषन् । अग्ने । उभयान् । अनु । व्रता । दूतः । देवानाम् । रजसी इति । सम् । ईयसे । यत् । ते । धीतिम् । सुमतिम् । आवृणीमहे । अध । स्म । नः । त्रिवरूथः । शिवः । भव ॥vi-bhūṣan | agne | ubhayān | anu | vratā | dūtaḥ | devānām | rajasī iti | sam | īyase | yat | te | dhītim | su-matim | āvṛṇīmahe | adha | sma | naḥ | tri-varūthaḥ | śivaḥ | bhava