Sukta 6.15
त्वां दूतमग्ने अमृतं युगेयुगे हव्यवाहं दधिरे पायुमीड्यम् । देवासश्च मर्तासश्च जागृविं विभुं विश्पतिं नमसा नि षेदिरे ॥
त्वां दू॒तम॑ग्ने अ॒मृतं॑ यु॒गेयु॑गे हव्य॒वाहं॑ दधिरे पा॒युमीड्य॑म् । दे॒वास॑श्च॒ मर्ता॑सश्च॒ जागृ॑विं वि॒भुं वि॒श्पतिं॒ नम॑सा॒ नि षे॑दिरे ॥
tvā́ṃ dūtám agne amṛ́taṃ yugéyuge havyavā́haṃ dadhire pāyúm ī́ḍyam | devā́saś ca mártāsaś ca jā́gṛviṃ vibhúṃ víśpatiṃ námasā ní ṣedire ||
You, O Agni, the immortal Messenger age after age, the bearer of the offering, the guardian worthy of adoration—both gods and mortals have set you down with reverence, wakeful, all-pervading, lord of the people.
त्वाम् । दू॒तम् । अ॒ग्ने॒ । अ॒मृत॑म् । यु॒गेऽयु॑गे । ह॒व्य॒ऽवाह॑म् । द॒धि॒रे॒ । पा॒युम् । ईड्य॑म् । दे॒वासः॑ । च॒ । मर्ता॑सः । च॒ । जागृ॑विम् । वि॒ऽभुम् । वि॒श्पति॑म् । नम॑सा । नि । से॒दि॒रे॒ ॥त्वाम् । दूतम् । अग्ने । अमृतम् । युगेयुगे । हव्यवाहम् । दधिरे । पायुम् । ईड्यम् । देवासः । च । मर्तासः । च । जागृविम् । विभुम् । विश्पतिम् । नमसा । नि । सेदिरे ॥tvām | dūtam | agne | amṛtam | yuge--yuge | havya-vāham | dadhire | pāyum | īḍyam | devāsaḥ | ca | martāsaḥ | ca | jāgṛvim | vi-bhum | viśpatim | namasā | ni | sedire