Sukta 6.15
तं सुप्रतीकं सुदृशं स्वञ्चमविद्वांसो विदुष्टरं सपेम । स यक्षद्विश्वा वयुनानि विद्वान्प्र हव्यमग्निरमृतेषु वोचत् ॥
तं सु॒प्रती॑कं सु॒दृशं॒ स्वञ्च॒मवि॑द्वांसो वि॒दुष्ट॑रं सपेम । स य॑क्ष॒द्विश्वा॑ व॒युना॑नि वि॒द्वान्प्र ह॒व्यम॒ग्निर॒मृते॑षु वोचत् ॥
táṃ suprátīkaṃ sudṛ́śaṃ sváñcam ávidvāṃso vidúṣṭaraṃ sapema | sá yakṣád víśvā vayúnāni vidvā́n prá havyám agnír amṛ́teṣu vocat ||
That one of fair visage, of good seeing, moving straight—we, though not knowing, would follow the more-knowing. May he, knowing, perform all works of discernment; may Agni proclaim the offering forward among the immortals.
तम् । सु॒ऽप्रती॑कम् । सु॒ऽदृश॑म् । सु॒ऽअञ्च॑म् । अवि॑द्वांसः । वि॒दुःऽत॑रम् । स॒पे॒म॒ । सः । य॒क्ष॒त् । विश्वा॑ । व॒युना॑नि । वि॒द्वान् । प्र । ह॒व्यम् । अ॒ग्निः । अ॒मृते॑षु । वो॒च॒त् ॥तम् । सुप्रतीकम् । सुदृशम् । सुअञ्चम् । अविद्वांसः । विदुःतरम् । सपेम । सः । यक्षत् । विश्वा । वयुनानि । विद्वान् । प्र । हव्यम् । अग्निः । अमृतेषु । वोचत् ॥tam | su-pratīkam | su-dṛśam | su-añcam | avidvāṃsaḥ | viduḥ-taram | sapema | saḥ | yakṣat | viśvā | vayunāni | vidvān | pra | havyam | agniḥ | amṛteṣu | vocat