Sukta 6.15
अग्निमग्निं वः समिधा दुवस्यत प्रियम्प्रियं वो अतिथिं गृणीषणि । उप वो गीर्भिरमृतं विवासत देवो देवेषु वनते हि वार्यं देवो देवेषु वनते हि नो दुवः ॥
अ॒ग्निम॑ग्निं वः स॒मिधा॑ दुवस्यत प्रि॒यम्प्रि॑यं वो॒ अति॑थिं गृणी॒षणि॑ । उप॑ वो गी॒र्भिर॒मृतं॑ विवासत दे॒वो दे॒वेषु॒ वन॑ते॒ हि वार्यं॑ दे॒वो दे॒वेषु॒ वन॑ते॒ हि नो॒ दुव॑: ॥
agním agníṃ vaḥ samídhā duvasyata priyáṃpriyaṃ vo átithiṃ gṛṇīṣaṇi | úpa vo gīrbhír amṛ́taṃ vivāsata devó devéṣu vánate hí vā́ryaṃ devó devéṣu vánate hí no dúvaḥ ||
Serve Agni again and again with the fuel of your kindling; praise the beloved Guest, ever dear. With your words draw near and make room for the Immortal: the god wins among the gods the desirable boons; the god wins among the gods our act of service and its fulfillment.
अ॒ग्निम्ऽअ॑ग्निम् । वः॒ । स॒म्ऽइधा॑ । दु॒व॒स्य॒त॒ । प्रि॒यम्ऽप्रि॑यम् । वः॒ । अति॑थिम् । गृ॒णी॒षणि॑ । उप॑ । वः॒ । गीः॒ऽभिः । अ॒मृत॑म् । वि॒वा॒स॒त॒ । दे॒वः । दे॒वेषु॑ । वन॑ते । हि । वार्य॑म् । दे॒वः । दे॒वेषु॑ । वन॑ते । हि । नः॒ । दुवः॑ ॥अग्निम्अग्निम् । वः । सम्इधा । दुवस्यत । प्रियम्प्रियम् । वः । अतिथिम् । गृणीषणि । उप । वः । गीःभिः । अमृतम् । विवासत । देवः । देवेषु । वनते । हि । वार्यम् । देवः । देवेषु । वनते । हि । नः । दुवः ॥agnim-agnim | vaḥ | sam-idhā | duvasyata | priyam-priyam | vaḥ | atithim | gṛṇīṣaṇi | upa | vaḥ | gīḥ-bhiḥ | amṛtam | vivāsata | devaḥ | deveṣu | vanate | hi | vāryam | devaḥ | deveṣu | vanate | hi | naḥ | duvaḥ