Sukta 6.15
पावकया यश्चितयन्त्या कृपा क्षामन्रुरुच उषसो न भानुना । तूर्वन्न यामन्नेतशस्य नू रण आ यो घृणे न ततृषाणो अजरः ॥
पा॒व॒कया॒ यश्चि॒तय॑न्त्या कृ॒पा क्षाम॑न्रुरु॒च उ॒षसो॒ न भा॒नुना॑ । तूर्व॒न्न याम॒न्नेत॑शस्य॒ नू रण॒ आ यो घृ॒णे न त॑तृषा॒णो अ॒जर॑: ॥
pāvakáyā yáś citáyantyā kṛpā́ kṣā́man rurucá uṣáso ná bhānúnā | tū́rvan ná yā́mann étaśasya nū́ ráṇe ā́ yó ghṛṇé ná tatṛṣāṇó ajáraḥ ||
With a purifying flame that awakens perception, he shines through the nights like the radiance of Dawn; pressing forward on the path like the swift steed, he comes into the battle—like ardent splendor never satiated, unaging.
पा॒व॒कया॑ । यः । चि॒तय॑न्त्या । कृ॒पा । क्षाम॑न् । रु॒रु॒चे । उ॒षसः॑ । न । भा॒नुना॑ । तूर्व॑न् । न । याम॑न् । एत॑शस्य । नु । रणे॑ । यः । घृ॒णे । न । त॒तृषा॒णः । अ॒जरः॑ ॥पावकया । यः । चितयन्त्या । कृपा । क्षामन् । रुरुचे । उषसः । न । भानुना । तूर्वन् । न । यामन् । एतशस्य । नु । रणे । यः । घृणे । न । ततृषाणः । अजरः ॥pāvakayā | yaḥ | citayantyā | kṛpā | kṣāman | ruruce | uṣasaḥ | na | bhānunā | tūvarn | na | yāman | etaśasya | nu | raṇe | yaḥ | ghṛṇe | na | tatṛṣāṇaḥ | ajaraḥ