Sukta 6.15
स त्वं दक्षस्यावृको वृधो भूरर्यः परस्यान्तरस्य तरुषः । रायः सूनो सहसो मर्त्येष्वा छर्दिर्यच्छ वीतहव्याय सप्रथो भरद्वाजाय सप्रथः ॥
स त्वं दक्ष॑स्यावृ॒को वृ॒धो भू॑र॒र्यः पर॒स्यान्त॑रस्य॒ तरु॑षः । रा॒यः सू॑नो सहसो॒ मर्त्ये॒ष्वा छ॒र्दिर्य॑च्छ वी॒तह॑व्याय स॒प्रथो॑ भ॒रद्वा॑जाय स॒प्रथ॑: ॥
sá tvaṁ dákṣasyāvr̥kó vr̥dhó bhūr aryáḥ párasyā́ntarasya tárūṣaḥ | rāyáḥ sū́no sahaso mártyeṣv ā́ chárdir yaccha vīta-hávyāya sa-práthō bharád-vājāya sa-práthaḥ ||
Thou art the undiminished protector of skill, the increaser; a noble force that overcomes what is beyond and what is within. O Son of Strength, extend among mortals the shelter of plenitude for Vītahavya the wide-spreading, for Bharadvāja the wide-spreading.
सः । त्वम् । दक॑स्य । अ॒वृ॒कः । वृ॒धः । भूः॒ । अ॒र्यः । पर॑स्य । अन्त॑रस्य । तरु॑षः । रा॒यः । सू॒नो॒ इति॑ । स॒ह॒सः॒ । मर्त्ये॑षु । आ । छ॒र्दिः । य॒च्छ॒ । वी॒तऽह॑व्याय । स॒ऽप्रथः॑ । भ॒रत्ऽवा॑जाय । स॒ऽप्रथः॑ ॥सः । त्वम् । दकस्य । अवृकः । वृधः । भूः । अर्यः । परस्य । अन्तरस्य । तरुषः । रायः । सूनो इति । सहसः । मर्त्येषु । आ । छर्दिः । यच्छ । वीतहव्याय । सप्रथः । भरत्वाजाय । सप्रथः ॥saḥ | tvam | dakasya | avṛkaḥ | vṛdhaḥ | bhūḥ | aryaḥ | parasya | antarasya | taruṣaḥ | rāyaḥ | sūno iti | sahasaḥ | martyeṣu | ā | chardiḥ | yaccha | vīta-havyāya | sa-prathaḥ | bharat-vājāya | sa-prathaḥ