Sukta 6.15
मित्रं न यं सुधितं भृगवो दधुर्वनस्पतावीड्यमूर्ध्वशोचिषम् । स त्वं सुप्रीतो वीतहव्ये अद्भुत प्रशस्तिभिर्महयसे दिवेदिवे ॥
मि॒त्रं न यं सुधि॑तं॒ भृग॑वो द॒धुर्वन॒स्पता॒वीड्य॑मू॒र्ध्वशो॑चिषम् । स त्वं सुप्री॑तो वी॒तह॑व्ये अद्भुत॒ प्रश॑स्तिभिर्महयसे दि॒वेदि॑वे ॥
mítraṁ ná yáṁ su-dhítaṁ bhṛ́gavo dadhúr vanaspátāv ī́ḍyam ūrdhvā́-śociṣam | sá tvaṁ su-prī́to vīta-hávye adbhúta práśasti-bhir mahayase divé-divé ||
Like a friend whom the Bhṛgus have firmly set, worthy of adoration on the lord of the forest, with flames rising upward—so thou, wondrous Agni, well-pleased in the offering, art magnified day by day by our praises.
मि॒त्रम् । न । यम् । सु॒ऽधि॑तम् । भृग॑वः । द॒धुः । वन॒स्पतौ॑ । ईड्य॑म् । ऊ॒र्ध्वऽशो॑चिषम् । सः । त्वम् । सुऽप्री॑तः । वी॒तऽह॑व्ये । अ॒द्भु॒त॒ । प्रश॑स्तिऽभिः । म॒ह॒य॒से॒ । दि॒वेऽदि॑वे ॥मित्रम् । न । यम् । सुधितम् । भृगवः । दधुः । वनस्पतौ । ईड्यम् । ऊर्ध्वशोचिषम् । सः । त्वम् । सुप्रीतः । वीतहव्ये । अद्भुत । प्रशस्तिभिः । महयसे । दिवेदिवे ॥mitram | na | yam | su-dhitam | bhṛgavaḥ | dadhuḥ | vanaspatau | īḍyam | ūrdhva-śociṣam | saḥ | tvam | su-prītaḥ | vīta-havye | adbhuta | praśasti-bhiḥ | mahayase | dive--dive