Sukta 6.15
इममू षु वो अतिथिमुषर्बुधं विश्वासां विशां पतिमृञ्जसे गिरा । वेतीद्दिवो जनुषा कच्चिदा शुचिर्ज्योक्चिदत्ति गर्भो यदच्युतम् ॥
इ॒ममू॒ षु वो॒ अति॑थिमुष॒र्बुधं॒ विश्वा॑सां वि॒शां पति॑मृञ्जसे गि॒रा । वेतीद्दि॒वो ज॒नुषा॒ कच्चि॒दा शुचि॒र्ज्योक्चि॑दत्ति॒ गर्भो॒ यदच्यु॑तम् ॥
imám ū́ ṣú vo átithim uṣár-budhaṁ víśvāsāṁ viśā́ṁ pátim ṛ́ñjase girā́ | vétīd divó jánuṣā kác cid ā́ śúcir jyók cid atti gárbho yád ácyutam ||
This guest of yours, awakened with the dawn, lord of all the peoples—him you adorn with the word. He knows by his birth from heaven; pure, he comes even now: the hidden germ devours what is unshaken.
इ॒मम् । ऊँ॒ इति॑ । सु । वः॒ । अति॑थिम् । उ॒षः॒ऽबुध॑म् । विश्वा॑साम् । वि॒शाम् । पति॑म् । ऋ॒ञ्ज॒से॒ । गि॒रा । वेति॑ । इत् । दि॒वः । ज॒नुषा॑ । कत् । चि॒त् । आ । शुचिः॑ । ज्योक् । चि॒त् । अ॒त्ति॒ । गर्भः॑ । यत् । अच्यु॑तम् ॥इमम् । ऊँ इति । सु । वः । अतिथिम् । उषःबुधम् । विश्वासाम् । विशाम् । पतिम् । ऋञ्जसे । गिरा । वेति । इत् । दिवः । जनुषा । कत् । चित् । आ । शुचिः । ज्योक् । चित् । अत्ति । गर्भः । यत् । अच्युतम् ॥imam | oṃ iti | su | vaḥ | atithim | uṣaḥ-budham | viśvāsām | viśām | patim | ṛñjase | girā | vet i | it | divaḥ | januṣā | kat | cit | ā | śuciḥ | jyok | cit | atti | garbhaḥ | yat | acyutam