Sukta 6.15
अग्निर्होता गृहपतिः स राजा विश्वा वेद जनिमा जातवेदाः । देवानामुत यो मर्त्यानां यजिष्ठः स प्र यजतामृतावा ॥
अ॒ग्निर्होता॑ गृ॒हप॑ति॒: स राजा॒ विश्वा॑ वेद॒ जनि॑मा जा॒तवे॑दाः । दे॒वाना॑मु॒त यो मर्त्या॑नां॒ यजि॑ष्ठ॒: स प्र य॑जतामृ॒तावा॑ ॥
agnír hótā gṛhápatiḥ sá rājā víśvā veda jánimā jātávedāḥ | devā́nām utá yó mártyānāṃ yájiṣṭhaḥ sá prá yajatām ṛtā́vā ||
Agni is the priest, the lord of the dwelling, the king; Jātavedas knows all births and becomings. He who is the most capable sacrificer for gods and for mortals—may that ṛta-possessor lead the offering forward.
अ॒ग्निः । होता॑ । गृ॒हऽप॑तिः । सः । राजा॑ । विश्वा॑ । वे॒द॒ । जनि॑म । जा॒तऽवे॑दाः । दे॒वाना॑म् । उ॒त । यः । मर्त्या॑नाम् । यजि॑ष्ठः । सः । प्र । य॒ज॒ता॒म् । ऋ॒तऽवा॑ ॥अग्निः । होता । गृहपतिः । सः । राजा । विश्वा । वेद । जनिम । जातवेदाः । देवानाम् । उत । यः । मर्त्यानाम् । यजिष्ठः । सः । प्र । यजताम् । ऋतवा ॥agniḥ | hotā | gṛha-patiḥ | saḥ | rājā | viśvā | veda | janima | jāta-vedāḥ | devānām | uta | yaḥ | martyānām | yajiṣṭhaḥ | saḥ | pra | yajatām | ṛta-vā