Sukta 6.12
अध स्मास्य पनयन्ति भासो वृथा यत्तक्षदनुयाति पृथ्वीम् । सद्यो यः स्यन्द्रो विषितो धवीयानृणो न तायुरति धन्वा राट् ॥
अध॑ स्मास्य पनयन्ति॒ भासो॒ वृथा॒ यत्तक्ष॑दनु॒याति॑ पृ॒थ्वीम् । स॒द्यो यः स्य॒न्द्रो विषि॑तो॒ धवी॑यानृ॒णो न ता॒युरति॒ धन्वा॑ राट् ॥
ádha smā́sya panayanti bhā́so vṛ́thā yát tákṣad anuyā́ti pṛthvī́m | sadyó yáḥ syandrò víṣito dhávīyān ṛṇó ná tāyúr áti dhánvā rā́ṭ ||
Then his splendors are set in motion; never in vain is what he has shaped, for it follows through the wide earth of our nature. Immediately, when he is released, he rushes in a flowing surge, more impetuous—like a debtor pursuing payment—he overstrides the desert and rules.
अध॑ । स्म॒ । अ॒स्य॒ । प॒न॒य॒न्ति॒ । भासः॑ । वृथा॑ । यत् । तक्ष॑त् । अ॒नु॒ऽयाति॑ । पृ॒थ्वीम् । स॒द्यः । यः । स्प॒न्द्रः । विऽसि॑तः । धवी॑यान् । ऋ॒णः । न । ता॒युः । अति॑ । धन्व॑ । राट् ॥अध । स्म । अस्य । पनयन्ति । भासः । वृथा । यत् । तक्षत् । अनुयाति । पृथ्वीम् । सद्यः । यः । स्पन्द्रः । विसितः । धवीयान् । ऋणः । न । तायुः । अति । धन्व । राट् ॥adha | sma | asya | panayanti | bhāsaḥ | vṛthā | yat | takṣat | anu-yāti | pṛthvīm | sadyaḥ | yaḥ | spandraḥ | vi-sitaḥ | dhavīyān | ṛṇaḥ | na | tāyuḥ | ati | dhanva | rāṭ