Sukta 6.12
स त्वं नो अर्वन्निदाया विश्वेभिरग्ने अग्निभिरिधानः । वेषि रायो वि यासि दुच्छुना मदेम शतहिमाः सुवीराः ॥
स त्वं नो॑ अर्व॒न्निदा॑या॒ विश्वे॑भिरग्ने अ॒ग्निभि॑रिधा॒नः । वेषि॑ रा॒यो वि या॑सि दु॒च्छुना॒ मदे॑म श॒तहि॑माः सु॒वीरा॑: ॥
sá tváṃ no arvan nidā́yā viśvébhir agne agníbhir idhānáḥ | véṣi rāyó ví yāsi ducchúnā mádema śatá-himāḥ su-vīrāḥ ||
So thou, our steed of the journey, kindled with all the fires, O Agni, leadest us to the plenitudes; thou separatest and drivest away the evil path. May we rejoice, a hundred winters enduring, rich in heroic powers of the soul.
सः । त्वम् । नः॒ । अ॒र्व॒न् । निदा॑याः । विश्वे॑भिः । अ॒ग्ने॒ । अ॒ग्निऽभिः॑ । इ॒धा॒नः । मदे॑म । श॒तऽहि॑माः । सु॒ऽवीराः॑ ॥सः । त्वम् । नः । अर्वन् । निदायाः । विश्वेभिः । अग्ने । अग्निभिः । इधानः । मदेम । शतहिमाः । सुवीराः ॥saḥ | tvam | naḥ | arvan | nidāyāḥ | viśvebhiḥ | agne | agnibhiḥ | idhānaḥ | madema | śata-himāḥ | su-vīrāḥ