Sukta 6.12
सास्माकेभिरेतरी न शूषैरग्निः ष्टवे दम आ जातवेदाः । द्र्वन्नो वन्वन्क्रत्वा नार्वोस्रः पितेव जारयायि यज्ञैः ॥
सास्माके॑भिरे॒तरी॒ न शू॒षैर॒ग्निः ष्ट॑वे॒ दम॒ आ जा॒तवे॑दाः । द्र्व॑न्नो व॒न्वन्क्रत्वा॒ नार्वो॒स्रः पि॒तेव॑ जार॒यायि॑ य॒ज्ञैः ॥
sāsmākébhir étarī ná śūṣáir agníḥ ṣṭave dáma ā́ jātávedāḥ | drváṇṇo vanván kratvā́ nā́rvó usrā́ḥ pitā́ iva jārayā́yi yajñáiḥ ||
With our eager strengths he advances like a swift mover; Agni, the Knower of births, is to be hymned in the home of the being. Driving forward, conquering by will, like a coursing steed, he brings the dawn-lights; like a father he makes the sacrifice grow old into ripeness by our offerings.
सः । अ॒स्माके॑भिः । ए॒तरि॑ । न । शू॒षैः । अ॒ग्निः । स्त॒वे॒ । दमे॑ । आ । जा॒तऽवे॑दाः । द्रुऽअ॑न्नः । व॒न्वन् । क्रत्वा॑ । न । अर्वा॑ । उ॒स्रः । पि॒ताऽइ॑व । जा॒र॒यायि॑ । य॒ज्ञैः ॥सः । अस्माकेभिः । एतरि । न । शूषैः । अग्निः । स्तवे । दमे । आ । जातवेदाः । द्रुअन्नः । वन्वन् । क्रत्वा । न । अर्वा । उस्रः । पिताइव । जारयायि । यज्ञैः ॥saḥ | asmākebhiḥ | etari | na | śūṣaiḥ | agniḥ | stave | dame | ā | jāta-vedāḥ | dru-annaḥ | vanvan | kratvā | na | arvā | usraḥ | pitāiva | jārayāyi | yajñaiḥ