Sukta 6.12
तेजिष्ठा यस्यारतिर्वनेराट् तोदो अध्वन्न वृधसानो अद्यौत् । अद्रोघो न द्रविता चेतति त्मन्नमर्त्योऽवर्त्र ओषधीषु ॥
तेजि॑ष्ठा॒ यस्या॑र॒तिर्व॑ने॒राट् तो॒दो अध्व॒न्न वृ॑धसा॒नो अ॑द्यौत् । अ॒द्रो॒घो न द्र॑वि॒ता चे॑तति॒ त्मन्नम॑र्त्योऽव॒र्त्र ओष॑धीषु ॥
téjiṣṭhā yásyārátiḥ vane-rā́ṭ tódo ádhvann á vṛdhasā́nó ádyaut | adrógho ná dravitā́ cétati tmánn ámartyo'vártra óṣadhīṣu ||
Most keen is his onward impulse, ruling in the forest of growth; as a goad on the path he shines forth, increasing. Harmless in his intent, like a swift runner he awakens in the inmost being; immortal, unbarred, he moves among the herbs—powers of healing and renewal.
तेजि॑ष्ठा । यस्य॑ । अ॒र॒तिः । व॒ने॒ऽराट् । तो॒दः । अध्व॑न् । न । वृ॒ध॒सा॒नः । अ॒द्यौ॒त् । अ॒द्रो॒घः । न । द्र॒वि॒ता । चे॒त॒ति॒ । त्मन् । अम॑र्त्यः । अ॒व॒र्त्रः । ओष॑धीषु ॥तेजिष्ठा । यस्य । अरतिः । वनेराट् । तोदः । अध्वन् । न । वृधसानः । अद्यौत् । अद्रोघः । न । द्रविता । चेतति । त्मन् । अमर्त्यः । अवर्त्रः । ओषधीषु ॥tejiṣṭhā | yasya | aratiḥ | vane--rāṭ | todaḥ | adhvan | na | vṛdhasānaḥ | adyaut | adroghaḥ | na | dravitā | cetati | tman | amartyaḥ | avartraḥ | oṣadhīṣu