Sukta 6.12
आ यस्मिन्त्वे स्वपाके यजत्र यक्षद्राजन्त्सर्वतातेव नु द्यौः । त्रिषधस्थस्ततरुषो न जंहो हव्या मघानि मानुषा यजध्यै ॥
आ यस्मि॒न्त्वे स्वपा॑के यजत्र॒ यक्ष॑द्राजन्त्स॒र्वता॑तेव॒ नु द्यौः । त्रि॒ष॒धस्थ॑स्तत॒रुषो॒ न जंहो॑ ह॒व्या म॒घानि॒ मानु॑षा॒ यज॑ध्यै ॥
ā yásmin tve svápāke yajatra yákṣad rājan sarvatātā́ iva nú dyáuḥ | tri-sádhasthas tátaruṣo ná jaṃhó havyā́ maghā́ni mā́nuṣā yájadhyai ||
O King, O adorable Agni, in whom—when thou art perfectly manifest in the luminous working—heaven itself as it were now sacrifices in a total self-giving; thou, standing on the triple seat, swift beyond all hindrance, art to be worshipped by men with the oblations and with the gifts of plenitude.
आ । यस्मि॑न् । त्वे इति॑ । सु । अपा॑के । य॒ज॒त्र॒ । यक्ष॑त् । रा॒ज॒न् । स॒र्वता॑ताऽइव । नु । द्यौः । त्रि॒ऽस॒धस्थः॑ । त॒त॒रुषः॑ । न । जंहः॑ । ह॒व्या । म॒घानि॑ । मानु॑षा । यज॑ध्यै ॥आ । यस्मिन् । त्वे इति । सु । अपाके । यजत्र । यक्षत् । राजन् । सर्वताताइव । नु । द्यौः । त्रिसधस्थः । ततरुषः । न । जंहः । हव्या । मघानि । मानुषा । यजध्यै ॥ā | yasmin | tve iti | su | apāke | yajatra | yakṣat | rājan | sarvatātāiva | nu | dyauḥ | tri-sadhasthaḥ | tataruṣaḥ | na | jaṃhaḥ | havyā | maghāni | mānuṣā | yajadhyai