Sukta 5.9
तवाहमग्न ऊतिभिर्मित्रस्य च प्रशस्तिभिः । द्वेषोयुतो न दुरिता तुर्याम मर्त्यानाम् ॥
तवा॒हम॑ग्न ऊ॒तिभि॑र्मि॒त्रस्य॑ च॒ प्रश॑स्तिभिः । द्वे॒षो॒युतो॒ न दु॑रि॒ता तु॒र्याम॒ मर्त्या॑नाम् ॥
tavā́ham agne ūtíbhiḥ mitrásya ca práśastibhiḥ | dveṣó-yuto ná duritā́ turyā́ma mártyānām ||
O Agni, upheld by thy powers of help and by Mitra’s harmonizing affirmations, may I, freed from the yoke of hostility, overpass the difficult crossings that beset mortal nature.
तव॑ । अ॒हम् । अ॒ग्ने॒ । ऊ॒तिऽभिः॑ । मि॒त्रस्य॑ । च॒ । प्रश॑स्तिऽभिः । द्वे॒षः॒ऽयुतः॑ । न । दुः॒ऽइ॒ता । तु॒र्याम॑ । मर्त्या॑नाम् ॥तव । अहम् । अग्ने । ऊतिभिः । मित्रस्य । च । प्रशस्तिभिः । द्वेषःयुतः । न । दुःइता । तुर्याम । मर्त्यानाम् ॥tava | aham | agne | ūti-bhiḥ | mitrasya | ca | praśasti-bhiḥ | dveṣaḥ-yutaḥ | na | duḥ-itā | turyāma | martyānām