Sukta 5.9
तं नो अग्ने अभी नरो रयिं सहस्व आ भर । स क्षेपयत्स पोषयद्भुवद्वाजस्य सातय उतैधि पृत्सु नो वृधे ॥
तं नो॑ अग्ने अ॒भी नरो॑ र॒यिं स॑हस्व॒ आ भ॑र । स क्षे॑पय॒त्स पो॑षय॒द्भुव॒द्वाज॑स्य सा॒तय॑ उ॒तैधि॑ पृ॒त्सु नो॑ वृ॒धे ॥
táṃ no agne abhī́ náro rayíṃ sahasva ā́ bhara | sá kṣépayat sá póṣayad bhúvad vā́jasya sā́taya utá édhi pṛtsú no vṛ́dhe ||
That wealth of being bring to us, O Agni, for our human kind; bring it with victorious force. May it cast down the adverse, may it foster our increase; may it become for us the winning of plenitude of power, and be our growth in the battles.
तत् । नः॒ । अ॒ग्ने॒ । अ॒भि । नरः॑ । र॒यिम् । स॒ह॒स्वः॒ । आ । भ॒र॒ । सः । क्षे॒प॒य॒त् । सः । पो॒ष॒य॒त् । भुव॑त् । वाज॑स्य । सा॒तये॑ । उ॒त । ए॒धि॒ । नः॒ । वृ॒धे ॥तत् । नः । अग्ने । अभि । नरः । रयिम् । सहस्वः । आ । भर । सः । क्षेपयत् । सः । पोषयत् । भुवत् । वाजस्य । सातये । उत । एधि । नः । वृधे ॥tat | naḥ | agne | abhi | naraḥ | rayim | sahasvaḥ | ā | bhara | saḥ | kṣepayat | saḥ | poṣayat | bhuvat | vājasya | sātaye | uta | edhi | naḥ | vṛdhe