Sukta 5.87
अद्वेषो नो मरुतो गातुमेतन श्रोता हवं जरितुरेवयामरुत् । विष्णोर्महः समन्यवो युयोतन स्मद्रथ्यो न दंसनाप द्वेषांसि सनुतः ॥
अ॒द्वे॒षो नो॑ मरुतो गा॒तुमेत॑न॒ श्रोता॒ हवं॑ जरि॒तुरे॑व॒याम॑रुत् । विष्णो॑र्म॒हः स॑मन्यवो युयोतन॒ स्मद्र॒थ्यो॒३॒॑ न दं॒सनाप॒ द्वेषां॑सि सनु॒तः ॥
adveṣó no maruto gātúm étana śrótā haváṃ jaritúr evayā́marut | víṣṇor maháḥ sa-manyavo yuyótana smád rathyó na daṃsanā́pa dveṣā́ṃsi sanutáḥ ||
Come to us, O Maruts, by a path free from hostility; hear the call of the singer, O Maruts. In harmony of ardour for Vishnu’s greatness, drive away hatreds from us, as a skilled charioteer (clears the way), and win us through beyond enmities.
अ॒द्वे॒षः । नः॒ । म॒रु॒तः॒ । गा॒तुम् । आ । इ॒त॒न॒ । श्रोत॑ । हव॑म् । ज॒रि॒तुः । ए॒व॒याम॑रुत् । विष्णोः॑ । म॒हः । स॒ऽम॒न्य॒वः॒ । यु॒यो॒त॒न॒ । स्मत् । र॒थ्यः॑ । न । दं॒सना॑ । अप॑ । द्वेषां॑सि । स॒नु॒तरिति॑ ॥अद्वेषः । नः । मरुतः । गातुम् । आ । इतन । श्रोत । हवम् । जरितुः । एवयामरुत् । विष्णोः । महः । समन्यवः । युयोतन । स्मत् । रथ्यः । न । दंसना । अप । द्वेषांसि । सनुतरिति ॥adveṣaḥ | naḥ | marutaḥ | gātum | ā | itana | śrota | havam | jarituḥ | evayāmarut | viṣṇoḥ | mahaḥ | sa-manyavaḥ | yuyotana | smat | rathyaḥ | na | daṃsanā | apa | dveṣāṃsi | sanutariti