Sukta 5.87
ते रुद्रासः सुमखा अग्नयो यथा तुविद्युम्ना अवन्त्वेवयामरुत् । दीर्घं पृथु पप्रथे सद्म पार्थिवं येषामज्मेष्वा महः शर्धांस्यद्भुतैनसाम् ॥
ते रु॒द्रास॒: सुम॑खा अ॒ग्नयो॑ यथा तुविद्यु॒म्ना अ॑वन्त्वेव॒याम॑रुत् । दी॒र्घं पृ॒थु प॑प्रथे॒ सद्म॒ पार्थि॑वं॒ येषा॒मज्मे॒ष्वा म॒हः शर्धां॒स्यद्भु॑तैनसाम् ॥
te rudrā́saḥ su-mákhā agnáyo yáthā tuvi-dyumnā́ avantv evayā́marut | dī́rghaṃ pṛthú paprathé sádma pārthívam yeṣā́m ájmeṣv ā́ maháḥ śárdhāṃsy ádbhuta-enasām ||
May those Rudras, of good sacrifice, like fires of abundant splendour, protect—O Maruts. Long and wide is the earthly home they spread out, in whose marches the great hosts move, of marvellous power that cannot be charged with fault.
ते । रु॒द्रासः॑ । सुऽम॑खाः । अ॒ग्नयः॑ । य॒था॒ । तु॒वि॒ऽद्यु॒म्नाः । अ॒व॒न्तु॒ । ए॒व॒याम॑रुत् । दी॒र्घम् । पृ॒थु । प॒प्र॒थे॒ । सद्म॑ । पार्थि॑वम् । येषा॑म् । अज्मे॑षु । आ । म॒हः । शर्धां॑सि । अद्भु॑तऽएनसाम् ॥ते । रुद्रासः । सुमखाः । अग्नयः । यथा । तुविद्युम्नाः । अवन्तु । एवयामरुत् । दीर्घम् । पृथु । पप्रथे । सद्म । पार्थिवम् । येषाम् । अज्मेषु । आ । महः । शर्धांसि । अद्भुतएनसाम् ॥te | rudrāsaḥ | su-makhāḥ | agnayaḥ | yathā | tuvi-dyumnāḥ | avantu | evayāmarut | dīrgham | pṛthu | paprathe | sadma | pārthivam | yeṣām | ajmeṣu | ā | mahaḥ | śardhāṃs i | adbhuta-enasām